Shri Kaluramacharyanirmitam Shriramabrahma Ashtakam

Ashtakam

1

नमस्कृत्य गुरं रामानन्दं भाष्यकृतं तथा। मुक्तिदमष्टकं कुर्वे श्रीरामब्रह्मणः शुभम्॥

2

सर्जको जगतो यश्च जगतः पालकश्च यः। जगत्संहारको यश्च रामं ब्रह्म नमामि तम्॥

3

येन सम्पादिता वेदाः प्रदत्ता ब्रह्मणे तथा। ब्रह्मा चोत्पादितो येन रामं ब्रह्म नमामि तम्॥

4

आमनन्ति च वेदा हि सर्वे नित्यं च यत्पदम्। श्रुतिवृन्दान्वितं रम्यं रामं ब्रह्म नमामि तम्॥

5

यस्यानन्दस्य वेत्ता हि न विभेति कुतश्चन। ध्येयानन्दमयं ध्येयं रामं ब्रह्म नमामि तम्॥

6

सर्वं भवति विज्ञातं यस्य विज्ञानतः किल। उपादानं हि सर्वेषां रामं ब्रह्म नमामि तम्॥

7

नरो यस्य प्रपत्त्या हि सर्वेभ्योऽभयतामियात्। सर्वशक्तिं च सर्वेशं रामं ब्रह्म नमामि तम्॥

8

यश्च लभ्यो हि सर्वेषां स्वभक्त्यैवार्चिरादिना। भजनीयं दयाम्भोधिं रामं ब्रह्म नमामि तम्॥

9

दिव्यदेहगुणो यश्च निर्दोषो दिव्यभूषणः। दिव्यधामप्रदं दिव्यं रामं ब्रह्म नमामि तम्॥

10

द्वारपीठेश्वरश्रीमत्कालूरामार्यनिर्मितः। पठतामष्टकं चेदं भवताद् भक्तिमुक्तिदम्॥