Shri-Durgashtakam
Ashtakam
1
दुर्गति-हारिणि दुर्गे ! महादेवि ! नमोऽस्तु ते। केसरीन्द्र-समारूढे ! यातुधान-निवर्हिणि !॥
2
उमा हैमवती मातस्त्वं पार्वती महेश्वरी। कालिका सर्वमङ्गला गौरी भगवती शिवा॥
3
गायत्री त्वं च सावित्री सहस्रं तव नाम वै। शान्ति-स्वरूपिणी देवी काले त्वं घोर-रूपिणी॥
4
महिषासुर-मर्दिनी जगतां धर्म-धारिणी। आदिशक्ति-र्महामाया ज्योतिर्मयी महीयसी॥
5
ज्ञानं विद्या धृतिः प्रज्ञा राजसे श्रीर्यशस्विनी। संस्थिता विश्व-संसारे शक्तिरूपा त्वमम्बिका॥
6
विपत्तारिणी शङ्करी लोक-सङ्कट-नाशिनी। प्रसीद वरदा सदा तमस्तोम-विदारिणी॥
7
भक्त-क्लेशापहन्त्री त्वं हर सन्ताप-सन्ततिम्। सनातनी सुकल्याणी सिद्धिं यातु मनोरथम्॥
8
अपराधं क्षमस्व मे मातस्त्वमनुकम्पया। त्वमेव शरणं नित्यं नमस्तुभ्यं सदाशिवे !॥
9
कष्टं हरतु लोकस्य त्वदीयमिदमष्टकम्। भवतु पापहारकं हे मातः ! शुभदायकम्॥
10
(इति श्रीहरेकृष्णमेहेर-विरचितं श्रीदुर्गाष्टकं सम्पूर्णम्। ) -- रचयिता : डाॅ हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher॥