Upashantyashtakam

Ashtakam

1

अनुपासादितसुगुरोरविचारितवेदशीर्षतत्त्वस्य। कथमुपशान्तिः स्याद्भो सततं सत्सङ्गरहितस्य॥

2

अन्नमयादिषु पञ्चस्वहम्मतिं यावदेष न जहाति। तावत्कथमुपशान्तेः पात्रं प्रभवेच्छुकादितुल्योऽपि॥

3

चरतामक्षाश्वानां रूपप्रमुखेषु विषमविषयेषु। दोषविमर्शकशाहतिमकुर्वतः स्यात्कथं शान्तिः॥

4

तत्त्वावबोधमणिवरभूषणहीनं यदीयहृदयं स्यात्। कथमुपशान्तिर्वृणुयात्तं पुरुषं सादरं लोके॥

5

नक्तन्दिवं पराचि प्रवणस्वान्तस्य देहसक्तधियः। कथमुपशान्तिः पुंसः प्रभवेदपि कल्पकोटिशतैः॥

6

योगाख्यगारुडमनुप्रवरेण कृतो न येन रदभङ्गः। तृष्णाकृष्णभुजङ्ग्याः कथमुपशान्तिर्भवेत्तस्य॥

7

सुतगेहमित्रतरुणीप्रभृतिषु यस्यास्ति दृढतरः स्नेहः। स कथमुपशान्तिविषयामपि गाथां गातुमीश्वरः स्याद्भो॥

8

सन्त्यजति नैव कर्माण्यखिलान्यविगीतमार्गेण। सशिखं च यज्ञसूत्रं यः स कथं शान्तिभाजनं प्रभवेत्॥