KamalApatyashtakam
Ashtakam
1
भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम्॥
2
अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम्। जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम्॥
3
किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः। किमुत शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम्॥
4
मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम्। विषयलंपटतामपहाय वै भजत रे मनुजाः कमलापतिम्॥
5
न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः। व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम्॥
6
सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम्। समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम्॥
7
विविधरोगयुतं क्षणभङ्गुरं परवशं नवमार्गमलाकुलम्। परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम्॥
8
मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा। मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम्॥
9
हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम्। पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम्॥
10
इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तं॥