Durvasahkritam Shankara Ashtakam

Ashtakam

1

स्वधामा क्षिप्रेषुर्मग इव सुभीमो (सुभीमे) दहरग- स्त्वधूमो ज्योतिस्त्वं महिमगत आद्यश्च भगवन्। अषाढं त्वामुग्रं स्थिरकरणकायेन वचसा नुमस्स्तूमोद्धेमस्तनुगतमथैनो निवपन (निवपतु)॥

2

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्। मा नोऽवधीस्तनयं तं सुतं मे गावश्चाश्वान्हविषा त्वां यजामः। २३। शम्भोऽस्मदीयविविधेषु दुरावरेषु पापेषु निष्कृतिमतोऽप्यविनाशकेषु। एकद्विधात्रिचतुरेष्वपि पञ्चकेषु त्वं शूरभूरिषुवधिः करुणार्द्रदृष्ट्या॥

3

अन्तर्ये न भजन्ति मूढमतयो ध्यानं मनीषाततं रुद्रं त्र्यम्बकमम्बिकाबिलसितं श्रीकण्ठमीशं सदा। लिङ्गे कोमलबिल्वपल्लवजलैर्नार्चन्ति ये जिह्वया त्वद्भु(भ)क्तामलशेषभुक्तिरहिता गृह्णन्ति ते वै मलम्॥

4

देवं लिङ्गवरे सदा स्थितमहो बिल्वीदलैः कोमलै- र्नींरैर्वापि मघ(मख)क्रियासु भगवन् सोमस्य वा गह्व(ह्ल)या। भूर्णित्वा सवनेषु क्रोधितवपुर्भीमं मृगेन्द्रोपमं याचे देव सदा गिरा मधुरया मा चुक्रुधश्शङ्कर॥

5

कस्त्वां दैवतसार्वभौमरहितं याचेऽद्य (च) ईशानकं आभिस्त्वां भगवन् सदैव च नमोगीर्भिश्च रुद्रोद्यतैः। नक्तञ्चापि दिवा महेश पितरं हृद्गं बृहन्तं मृधं मृष्टन्त्वामजरं सुषुम्णमपि वै रुद्राण्यया संयुतम्॥

6

राजचन्द्रकलाधरञ्च भुवनस्येशानमिन्दुप्रभं त्वद्भक्ताः कवयो हवेम सततं त्वल्लिङ्गपूजादराः। त्वं शम्भुः प्रमतिः पितासि हितकृद्बन्धुस्त्वमेवासि मे त्वं माता परमो वयस्कृदपि मे त्वज्जामयो वा वयम्॥

7

त्वां देवञ्च भजाम शङ्कर विभो त्वद्भक्तिधारारसैः॥

8

दुर्वासाष्टकमेतदेव कलितं चित्ते कुतो दुर्वसः क्रोधो नाम भविष्यतीशभजनात्तं वै श्रियो वाञ्छिताः। उद्यच्चामरछत्रपङ्क्तिविलसन्मत्तेभकुम्भस्थिता राजद्वन्दिगणस्तुतो मधुरया वाचा सदास्ते सुखी॥

9

इति शिवरहस्यान्तर्गते भवाख्ये दुर्वासःकृतं शङ्कराष्टकम्॥

10

श्रीशिवरहस्यम्। भवाख्यः द्वितीयांशः। अध्यायः २७। २२-३०॥