Shri Bhavanandacharya Ashtakam
Ashtakam
1
रामानन्दीयसिद्धान्तत्रातारं राममन्त्रदम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
धर्मस्य रक्षिणं सर्वलोककल्याणकाङ्क्षिणम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
सीतारामाञ्जनासूनुपूजकं लोकपूजितम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
भक्त्या मुक्तिप्रदातारमानन्दभाष्यपाठकम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
वेदवेदान्ततत्त्वज्ञमात्मानात्मप्रबोधकम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
शान्तिदं सिद्धिदं सिद्धं सेवितं सिद्धयोगिभि। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
मालोर्ध्वपुण्ड्रमुद्रादेर्दातारं पावनं परम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
मन्त्रराजादिमन्त्राणामर्थानामभिधायकम्। भावानन्दमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥