shrIpAdukAShTakam

Ashtakam

1

गोकुलेशपादपद्ममण्डनैकमण्डिते सुरेशशेषसर्वदेशवासिवृन्दवन्दिते। अनन्यभक्तवाञ्छिताखिलार्थसिद्धिसाधिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

2

महार्हरत्ननिर्मिते सुहेमपीतसंस्थिते स्वसेवकैकसेविते सुपुष्पवासवासिते। स्वरूपबुद्धिहीनजीवसत्स्वरूपबोधिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

3

स्वसेवनैकचेतसामनन्यभक्तिदायिके कृपासुघैकसिक्तभक्तकाममोहनाशिके। महान्धकारलीनजीवहृत्प्रकाशचन्द्रिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

4

निजाश्रयस्थिताखिलापदां सदा विदारके ह्यनेकतापतप्तजीवगाङ्गवारिवीचिके। समागतस्य सन्निधौ दुरन्तमोहभञ्जिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

5

सदुःखदाववह्निदग्धमुग्धजीवसौख्यदे चण्डकालव्यालग्रस्तत्रस्तविश्वमोक्षिचेके। स्वभक्तशुद्धमानसे विराजमानहंसिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

6

सुपादुकेतिकीर्तनाद्भवाब्धितोऽपि तारिके स्वसेवनात्सदा नृणां सुखैकवृद्धिकारिके। महेन्द्रचन्द्रब्रह्मभानुमौलिहेममालिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

7

महर्षिदेवसिद्धवृन्दचामरप्रवीजिते चतुर्दिगन्तवारिधौ निजप्रतापगर्जिते। भवाब्धिमग्नजीवजातशोकमोहहारिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

8

यथोद्धवाय भक्तिभावभाविताय चार्पिते तथैव गोकुलेश्वरेण सेवकाय चार्पिते। निरस्य मायिकं वचः स्वपुष्टिमार्गदर्शिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके॥

9

ये पादुकाष्टकमिदं नियतं पतन्ति विप्रोद्धवेन रचितं महतां प्रसादात्। ते यान्ति गोकुलपतेश्चरणारविन्दं सान्निध्यमुक्तिगतिमत्र च तत्प्रसादात्॥