Bilvashtakam

Ashtakam

1

त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम्। त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम्॥

2

त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः। तव पूजां करिष्यामि एकबिल्वं शिवार्पणम्॥

3

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्। अघोरपापसंहारं एकबिल्वं शिवार्पणम्॥

4

काशीक्षेत्रनिवासं च कालभैरवदर्शनम्। प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम्॥

5

तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा। पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम्॥

6

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्। कोटिकन्यामहादानं एकबिल्वं शिवार्पणम्॥

7

दन्त्यश्वकोटिदानानि अश्वमेधशतानि च। कोटिकन्यामहादानं एकबिल्वं शिवार्पणम्॥

8

सालग्रामसहस्राणि विप्रान्नं शतकोटिकम्। यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम्॥

9

अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत्। तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम्॥

10

एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत्। महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम्॥

11

अमृतोद्भववृक्षस्य महादेवप्रियस्य च। मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः॥