Vrajarajasuta Ashtakam
Ashtakam
1
नवनीरदनिन्दितकान्तिधरं रससागरनागरभूपवरम्। शुभवङ्किमचारुशिखण्डशिखं भज कृष्णनिधिं व्रजराजसुतम्॥
2
भ्रुविशङ्कितवङ्किमशक्रधनुं मुखचन्द्रविनिन्दितकोटिविधुम्। मृदुमन्दसुहास्यसुभाष्ययुतं भज कृष्णनिधिं व्रजराजसुतम्॥
3
सुविकम्पदनङ्गसदङ्गधरं व्रजवासिमनोहरवेशकरम्। भृशलाञ्छितनीलसरोज दृशं भज कृष्णनिधिं व्रजराजसुतम्॥
4
अलकावलिमण्डितभालतटं श्रुतिदोलितमाकरकुण्डलकम्। कटिवेष्टितपीतपटं सुधटं भज कृष्णनिधिं व्रजराजसुतम्॥
5
कलनूपुरराजितचारुपदं मणिरञ्जितगञ्जितभृङ्गमदम्। ध्वजवज्रझषाङ्कितपादयुगं भज कृष्णनिधिं व्रजराजसुतम्॥
6
भृशचन्दनचर्चितचारुतनुं मणिकौस्तुभगर्हितभानुतनुम्। व्रजबालशिरोमणिरूपधृतं भज कृष्णनिधिं व्रजराजसुतम्॥
7
सुरवृन्दसुवन्द्यमुकुन्दहरिं सुरनाथशिरोमणिसर्वगुरुम्। गिरिधारिमुरारिपुरारिपरं भज कृष्णनिधिं व्रजराजसुतम्॥
8
वृषभानुसुतावरकेलिपरं रसराजशिरोमणिवेशधरम्। जगदीश्वरमीश्वरमीड्यवरं भज कृष्णनिधिं व्रजराजसुतम्॥
9
इति व्रजराजसुताष्टकं सम्पूर्णम् ।॥