Shri Tikakritpada Ashtakam

Ashtakam

1

योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो- भारान् हृदये बहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः। टीकाऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

2

ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः। भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

3

किं ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो दघ्रेऽक्षोभ्यमुनीश्वरेण वशिना शापे तथाऽनुग्रहे। भूतानागतवेदिनेति चतुरैः कैश्चिनिजैश्चोदितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

4

इत्येवं बहुधा वशीकृतमना गत्वा समीपं गुरो- नत्वा तं पठ शास्त्रमद्भुतमिदं सम्यग्विरक्तो भव। श्रीरामं सुखतीर्थपूजितपदं भक्त्याऽर्चयेतीरितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

5

इत्याद्युक्तममोघचित्तवचसां विश्वस्य वेदोपमं साष्टाङ्गं प्रणिपत्य तं तु समयं तुर्याश्रमं प्रापितः। व्याजह्रे न मया किमप्यधिगतं सन्ध्यादिकं वेति यः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

6

भोस्त्वं श्रीसुखतीर्थतीर्थमतुलं टीकिष्यसेऽनुग्रहात् तस्यैवेह सुधां प्रदास्यसि जने योग्ये दिवीन्द्रो यथा। आदिष्टो गुरुणा जयेति गदितस्त्र्यष्टादशग्रन्थकृत् छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

7

तर्काशीविषमूर्ध्नि ताण्डवमहो श्रीव्यासराट्केकिनो यस्य श्रीसुधया व्यधुविर्हरणाच्छ्रान्तात्मनां यस्य च। नानादुर्मतखण्डनेऽद्भुतसुधाविप्लुट्शरण्याऽपि मे छिन्द्याच्छीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

8

विद्यारण्यजयं श‍ृगालमठगः स्तम्भो यदीयः स्फुटं वक्त्यद्यापि वसन्नथोपकुरुतेऽनाथान् स्वभक्तांश्च यः। वृष्टिग्राम इतोऽपि यच्छुभजपव्याख्यापदाङ्कं गुहात् छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम्॥

9

इत्येतद्गुरुजालबालरचितं भक्त्या पठनष्टकं कागिन्यामुदये विधाय विधिवत् स्नानं नमन् माधवम्। नत्वा कोत्तलवायुजं रघुपतिं रक्षन्तमक्षोभ्यराट- नित्यानुव्रतमञ्जसा श्रुतिपसत्यानन्दमुख्यान् यतीन्॥

10

अश्वत्थं च परीत्य सप्तसु दिनेषु श्रीजयेन्द्रं नमन् सद्यः पापविमुक्तिमेति भवति श्रीमांश्च सश्रीः सुधीः। यो वा दीनमना अनन्यशरणो भक्त्याऽलसो मादृशः सिद्धिं याति ततोऽधिकां बुधजनः साक्षात् सुधा साक्षिणी॥