Sachinandana Ashtakam

Ashtakam

1

गोपीनां कुचकुङ्कुमेन निचितं वासः किमस्यारुणं निन्दत्काञ्चनकान्तिरासरसिकाश्लेषेण गौरं वपुः। तासां गाढकराभिबन्धनवशाल्लोमोद्गमो दृश्यते आश्चर्यं सखि पश्य लम्पटगुरोः सन्न्यासवेषं क्षितौ॥

2

यः पूर्वं व्रजसुन्दरीरतिरसैरुत्थापितः प्रत्यहं कालिन्दीपुलिने ननर्त रभसात् श्रीरासगोष्ठ्यां विभुः। सोऽयं सम्प्रति सर्वलोकनिहितप्रेमानुरागः कलौ प्रेम्णा नृत्यति नर्तयत्यपि जगद्भूदेवचूडामणिः॥

3

वेदान्तागमवेदशास्त्रपटलीदुर्गम्यपादाम्बुजः श्रीश्रीनन्दकिशोरलास्यलहरीविद्योतकानुग्रहः। तत्कालस्मृतिमात्रतत्क्षणवलत्प्रेमप्रवाहाम्बुधि- र्भूदेवाङ्गणामङ्गलो विजयते श्रीश्रीशचीनन्दनः॥

4

मोहोन्मादरसेन गोपवनितासिक्तेन वृन्दावनं यः पूर्वं जगदेकमङ्गलमलं चक्रे घनश्यामलः। सोऽयं गौरहरिः समस्तजगतीं प्रेम्णा समुल्लासयन् कारुण्यैकनिकेतनं विजयते गौडावनीमण्डले॥

5

नृत्यावेशमहोल्लसत्सुमधुरप्रत्यङ्गवेशोज्ज्वलं श्रीखण्डागुरुकुङ्कुमादिसहितं श्रीमद्बृहद्वक्षसा। कर्पूरोद्भटपूगपुञ्जविलसत्प्रारक्तबिम्बाधरं श्रीचैतन्यमहाप्रभोर्विजयते लावण्यसारं वपुः॥

6

प्रतप्तकनकप्रभं विमलपूर्णचन्द्राननं गलन्नयनवारिभिः सपदि सिक्तभूमीतलम्। सगद्गदगिरं मुदा सकलदेवचूडामणिं शचीसुतमहं भजे करुणसागरमीश्वरम्॥

7

कदम्बकुसुमोल्लसत्पुलकपुञ्जपुञ्जोज्ज्वलं झलत्झलदिति स्खलन्नयनवारिभिर्निर्झरम्। वयं दमदमायिते हृदि दरस्फुरन्माधुरी मधून्मदमहानटं किमपि धाम वन्दामहे॥

8

उच्चैर्लोलभुजद्वयेन परितः स्वर्लोकमाह्लादयन् प्रेम्णा पूरितकण्ठगद्गदहरिध्वानैर्भुवं मोहयन्। चञ्चत्पादविहारिनूपुररवैर्नागान् मुदा मीलयन् नित्यानन्दमहाप्रभुर्विजयते श्रीमल्लवेशोज्ज्वलः॥

9

कृष्णो देवः कलियुगभवं लोकमालोक्य सर्वं पापासक्तं समजनि कृपासिन्धुचैतन्यमूर्तिः। तस्मिन् येषां न भवति सदा कृष्णबुद्धिर्नराणां धिक्तान् धिक्तान् धिगिति धिगिति व्याहरेत् किं मृदङ्गः॥

10

इति श्रीनरहरीसरकारविरछितं सचिनन्दनाष्टकं सम्पूर्णम् ।॥