Gadadhara Ashtakam

Ashtakam

1

स्वभक्तियोगलासिनं सदा व्रजे विहारिणं हरिप्रियागणाग्रगं शचीसुतप्रियेश्वरम्। सराधाकृष्णसेवनप्रकाशकं महाशयं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

2

नवोज्ज्वलादि भावनाविधानकर्मपारगं विचित्रगौरभक्तिसिन्धुरङ्गभङ्गलासिनम्। सुरागमार्गदर्शकं व्रजादिवासदायकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

3

सचीसुताङ्घ्रिसारभक्तवृन्दवन्द्यगौरवं गौरभावचित्तपद्ममध्यकृष्णवल्लभम्। मुकुन्दगौररूपिणं स्वभावधर्मदायकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

4

निकुञ्जसेवनादिकप्रकाशनैककारणं सदा सखीरतिप्रदं महारसस्वरूपकम्। सदाश्रिताङ्घ्रिपङ्कजं शरीरिसद्गुरुं वरं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

5

महाप्रभोर्महारसप्रकाशनाङ्कुरं प्रियं सदा महारसाङ्कुरप्रकाशनादिवासनम्। महाप्रभोर्व्रजाङ्गनादिभावमोदकारकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

6

द्विजेन्द्रवृन्दवन्द्यपादयुग्मभक्तिवर्धकं निजेशु राधिकात्मतावपुःप्रकाशनाग्रहम्। अशेषभक्तिशास्त्रशिक्षायोज्ज्वलामृतप्रदं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

7

मुदा निजप्रियादिकस्वपादपद्मसिन्धुभि- र्महारसार्णवमृतप्रदेष्टगौरभक्तिदम्। सदाष्टसात्त्विकान्वितं निजेष्टभक्तिदायकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम्॥

8

यदीयरीतिरागरङ्गभङ्गदिग्धमानसो नरोऽपि यति तूर्णमेव नार्यभावभाजनम्। तमुज्ज्वलक्तचित्तमेतु चित्तमत्तशत्पदो भजाम्यहं गदाधरं सुपण्डितं गुरं प्रभुम्॥

9

महारसामृतप्रदं सदा गदाधराष्टकं पथेत् तु यः सुभक्तितो व्रजाङ्गणगणोत्सवम्। सचीतनुजपादपद्मभक्तिरत्नयोग्यतां लभेत राधिकागदाधराङ्घ्रिपद्मसेवया॥

10

इति श्रीस्वरूपदामोदरगोसाव्मीविरचितं गदाधराष्टकं सम्पूर्णम् ।॥