Purvachataka Ashtakam

Ashtakam

1

वातैर्विधूनय विभाषय भीमनादैः सञ्चूर्णय त्वमथवा करकाभिघातैः। त्वद्वारिबिन्दु परिपालितजीवितस्य नान्या गतिर्भवति वारिद चातकस्य॥

2

चातकस्त्रिचतुरान् पयः कणान् याचते जलधरं पिपासितः। सोऽपि पूरयति भूयसाम्भसा चित्रमत्र महतामुदारता॥

3

शक्यते येन केनापि जीवनेनैव जीवितुम्। किन्तु कौलव्रतोद्भङ्गप्रसङ्गः परदुःसहः॥

4

गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोहम्। दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः॥

5

वापी स्वल्पजलाशयो विषमयो नीचापगाहो ह्रदः क्षुद्रात्क्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः। गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान् सन्मानी खलु चातको जलमुचामुच्चैः पयो वाञ्छति॥

6

बीजैरङ्कुरितं नदीभिरुदितं वल्मीभिरुज्जृम्भितं वृक्षैः पल्लवितं जनैश्च मुदितं धाराधरे वर्षति। भ्रातश्चातक पातकं किमपि ते सम्यङ्न जानीमहे यत्तेस्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयो बिन्दवः॥

7

नदेभ्योऽपि ह्रदेभ्योऽपि पिबन्त्यन्येऽवयःपयः। चातकस्य तु जीमूत भवानेवावलम्बनम्॥

8

नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिविष्टोत्तानचन्चूपुटेन। जलधर जलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन॥