Mahamaya Ashtakam
Ashtakam
1
सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतले यामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा। भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौ देवी स्फोटविपाटनैकचतुरा माता महामायिका॥
2
मातेत्याह्वय एव जल्पति महद् वात्सल्यमस्मासु ते कारुण्ये तव शीतलेति यदिदं नामैव साक्षीयते। इत्थं वत्सलतादयानिधिरिति ख्याता त्वमस्मानिमान् मातः कातरतां निवार्य नितरामानन्दितानातनु॥
3
प्रत्यक्षेतरवैभवैः किमितैरैर्देवव्रजैस्तादृशै- र्निन्दायामपि च स्तुतावपि फलं किञ्चिन्न ये तन्वते। या निन्दास्तवयोः फलं भगवती दत्सेऽनुरूपं क्षणा- न्नूनं तादृशवैभवा विजयसे देवि त्वमेका भुवि॥
4
वृत्तान्तं विविधप्रकारमयि ते जल्पन्ति लोके जना- स्तत्त्वं नोपलभे तथैव न विधिं जाने त्वदाराधने। तस्मादम्ब कथं पुनः कलयितुं शक्तास्मि ते पूजनं नूनं वच्मि दयानिधेऽवतु जडानस्मान् भवत्यादरात्॥
5
रोदंरोदमुदीर्णबाष्पलहरीक्लिन्नानने ते शिशा - वस्मिन् तप्यति किञ्चिदत्र करुणादृष्टिं विधत्से न चेत्। पातुं स्फोटगदात् पटुत्वमिव ते कस्यास्ति मातर्वद क्वायं गच्छतु कस्य पश्यतु मुखं का वा गतिर्लभ्यताम्॥
6
धर्म्यानुच्चरतां पथः कलयतां दोषांस्तथा चात्मनः स्वैरं निन्दनमातनोतु सततं द्वेष्येपथे तिष्ठतु। एतावत्यपि वत्सके किल शुचं याते मनाक् तत्क्षणं तत्त्राणे जननी प्रयास्यति हि तन्मातस्त्वमस्मानव॥
7
आबालस्थविरं प्रसिद्धमयि ते मातेति यन्नाम तद् गोप्तुं नैव हि शक्यमम्ब तदसौ तादृग्विधा त्वं यदि। अस्मिन् खिद्यति वत्सके न तनुषे मातुर्गुणं चेत्तदा नूनं स्यादपवादपात्रमयि तन्मातस्त्वमस्मानव॥
8
मुक्ताहारमनोहरद्युतियुतां मूर्तिं नरास्तावकीं ये ध्यायन्ति मृणालतन्तुसदृशीं नाभीहृदोरन्तरे। ते घोरज्वरभारजातविषमस्फोटस्फुटद्धुः सह- क्लेदोद्यत्कटुपूतिगन्धमयि नो जानन्त्यमी जात्वपि॥
9
कारुण्याम्बुधिशीतलापदपयोजातद्वयीभावना- जातस्फीतहृद(म्बुजा)मितसुधानिर्यासरूपामिमाम्। ये मर्त्या स्तुतिमादराद् गणपतेर्वक्त्राम्बुजान्निःसृतां विश्वासेन पठन्ति ते न दधते स्फोटव्यथां जातुचित्॥