Shri Radha Ashtakam

Ashtakam

1

कृष्णाराध्यां जगतसेव्यां जगद्गुरु जगतप्रसूम्। नमामि मातरं राधां कृष्णाराधनतत्पराम्॥

2

कृष्णसुखप्रदात्रीञ्च कृष्णप्राणप्रियां शुभाम्। राधां कृष्णमयीं दिव्यां कृष्णहृदि स्थितां भेजे॥

3

गोविन्दानन्दिनीं राधां गोविन्दमोहिनीं पराम्। गोविन्द हृद वन्दे सर्वकान्तशिरोमणिम्॥

4

शरणागतसम्भर्त्रीमार्तत्राणपरायणाम्। ज्ञानभक्तिप्रदां देवीं राधां वन्दे जगद्द्गुरुम्॥

5

प्रेमस्वरूपिणीं श्यामां महाभावमयीं पराम्। ज्ञानमयीं जगद्धात्रीं भजामि राधिकां सदा॥

6

व्रजेश्वरीं सखोसेव्यां वृन्दावनविहारिणीम्। देवीं वृन्दावनेश्वरीं प्रपद्येऽहं सदानतः॥

7

सर्वसुरनरैर्गीतां महादेवीं हरिप्रियाम्। कृष्णानुरूपसौगुण्यां श्रीराधिकामहं भजे॥

8

मातर्नमामि राधे !त्वां करुणापूरितान्तराम्। प्रेमभक्ति प्रदानेन प्रपन्नं पाहि मां सदा॥