Shri Arjunacharya Ashtakam
Ashtakam
1
(जङ्गिदेवाचार्य) ब्रह्मविद्योपदेष्टारं ब्रह्मोपासनतत्परम्। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
2
सत्याहिंसादिधर्माणां पालकं च प्रबोधकम्। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
3
आत्मानात्मविवेकज्ञं चिन्तकं परमात्मनः। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
4
शिष्याणां पञ्चसंस्कारकर्त्तारं भक्तिदायकम्। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
5
रहस्यार्थोपदेशेन श्रीसम्प्रदायवर्धकम्। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
6
विजेतारं च सिद्धानां विदुषां वादिनां तथा। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
7
श्रीरामानन्दभाष्याणां बोद्धारं चावबोधकम्। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
8
परात्परतरेशत्वं मन्तारं जानकीपतेः। वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥