Shri Kevalaramacharya Ashtakam
Ashtakam
1
(श्रीकूबाचार्य) रामानन्दीयधर्मस्य वैदिकस्य सुरक्षक्म्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
ईश्वरादीश्वरज्ञं च केवलरामसंज्ञकम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
मुद्रामालोर्ध्वपुण्ड्रादेर्दायकं वैष्णवोत्तमम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
राममन्त्रादिकानां च रहस्यानां प्रबोधकम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
वन्दितं सिद्धयोगीन्द्रैः सदाचार प्रचारकम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
रामानन्दकृतानन्दभाष्यसिद्धान्तशिक्षकम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
विशिष्टाद्वैतवादेन वादिनां वादभञ्जकम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
श्रीरामकीर्त्तनासक्तं भक्तिदानेनमुक्तिदम्। कूबाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥