Damodara Ashtakam
Ashtakam
1
दामोदराय कृष्णाय करे वंशीधराय च। उदरे दामबद्धाय बालकृष्णाय ते नमः॥
2
उलूखलेन सम्बद्ध उदरेऽपि च बन्धनम्। मुक्तिदाता स्वयं बद्ध अन्यान् लोकान् विमुक्तये॥
3
यमलार्जुनयोत्पाट्य नलकूवर मुक्तये। मणिग्रीवाय मोक्षञ्च ददन्तं तं नमाम्यहम्॥
4
रिङ्गयञ्च समागच्छन्नङ्गणे यशोदाग्रतः। पालायन परं देवं दामोदरं नमाम्यहम्॥
5
उलूखलोपर्य्यारुह्य नवनीतञ्चभुञ्जयन्। मर्कटान्नपि दत्तं तं बालकृष्णं नमाम्यहम्॥
6
दधिभाण्डं खण्डयित्वा पलायित्वा गतोऽन्यतः। नवनीतञ्चौरकं तं दामोदरं नमाम्यहम्॥
7
दामोदरेति नामस्तु लोकान् मुक्ति प्रदायकम्। तेन तं संस्मरेन्नित्यं भवबन्ध विमुक्तये॥
8
यशोदा यष्टिकां धृत्त्वा भीषयन्ती भयापहम्। भयभीताय कृष्णाय दामोदरायते नमः॥
9
दामोदराष्टकं नित्यं ये पठन्ति नरा भुवि। ते भवबन्ध निर्मुक्ता यान्ति तं परमं पदम्॥