Shri Mahashasta Ashtakam

Ashtakam

1

गजेन्द्रशार्दूल मृगेन्द्रवाहनं मुनीन्द्रसंसेवित पादपङ्कजम्। देवीद्वयेनावृत पार्श्वयुग्मं शास्तारमाद्यं सततं नमामि॥

2

हरिहरभवमेकं सच्चिदानन्दरूपं भवभयहरपादं भावनागम्यमूर्तिम्। सकलभुवनहेतुं सत्यधर्मानुकूलं श्रितजनकुलपालं धर्मशास्तारमीडे॥

3

हरिहरसुतमीशं वीरवर्यं सुरेशं कलियुगभवभीतिध्वंसलीलावतारम्। जयविजयलक्ष्मी सुसंसृताजानुबाहुं मलयगिरिनिवासं धर्मशास्तारमीडे॥

4

परशिवमयमीड्यं भूतनाथं मुनीन्द्रं करधृतविकचाब्जं ब्रह्मपञ्चस्वरूपम्। मणिमयसुकिरीटं मल्लिकापुष्पहारं वरवितरणशीलं धर्मशास्तारमीडे॥

5

हरिहरमयमाय बिम्बमादित्यकोटि त्विषममलमुखेन्दुं सत्यसन्धं वरेण्यम्। उपनिषदविभाव्यं ओंइतिध्यानगम्यं मुनिजनहृदि चिन्त्यं धर्मशास्तारमीडे॥

6

कनकमय दुकूलं चन्दनार्द्रावसिक्तं सरसमृदुलहासं ब्राह्मणानन्दकारम्। मधुरसमयपाणिं मारजीवातुलीलं सकलदुरितनाशं धर्मशास्तारमीडे॥

7

मुनिजनगणसेव्यं मुक्तिसाम्राज्यमूलं विदितसकलतत्वज्ञानमन्त्रोपदेशम्। इहपरफलहेतुं तारकं ब्रह्मसंज्ञं षडरिमलविनाशं धर्मशास्तारमीडे॥

8

मधुरसफलमुख्यैः पायसैर्भक्ष्यजालैः दधिघृत परिपूर्णैरन्नदानैस्सन्तुष्टम्। निजपदनमितानां नित्यवात्सल्यभावं हृदयकमलमध्ये धर्मशास्तारमीडे॥

9

भवगुणजनितानां भोगमोक्षाय नित्यं हरिहरभवदेवस्याष्टकं सन्निधौ यः। पठति सकलभोगान् मुक्तिसाम्राज्यभाग्ये भुविदिवि? च तस्मै नित्यतुष्टो ददाति॥