Shri Radhakundashtakam
Ashtakam
1
वृषभदनुजनाशान्नर्मधर्मोक्तिरङ्गै- र्निखिलनिजसखीभिर्यत्स्वहस्तेन पूर्णम्। निखिलनिजतनू प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
2
व्रजभुवि मुरशत्रोः प्रेयसीनां निकामै- रसुलभमपि तूर्णं प्रेमकल्पद्रुमं तम्। जनयति हृदि भूमौ स्नातुरुच्चैर्प्रियं य- त्तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
3
अघरिपुरपि यत्नादत्र देव्याः प्रसाद- प्रसरकृतकताक्षप्राप्तिकामः प्रकामम्। अनुसरति यदुचाइः स्नानसेवानुबन्धै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
4
व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं व्रजमधुरकिशोरीमौलिरत्नप्रियेव। परिचितमपि नाम्ना या च तेनैव तस्या- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
5
अपि जन इह कश्चिद्यस्य सेवाप्रसादैः प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः। सपदि किल मदीशादास्यपुष्पप्रशस्या तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
6
तटमधुरनिकुञ्जः कॢप्तनामान उच्चै- र्निजपरिजनवर्गैः संविभज्याश्रितस्तैः। मधुकररुतरम्या यस्य राजन्ति काम्या- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
7
तटभुवि वरवेद्यां यस्य नर्मातिहृद्यां मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या। प्रठयति मिथ ईशा प्राणसख्यालिभिः सा तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
8
अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घै- र्वरसरसिजगन्धैर्हारिवारिप्रपूर्णे। विहरत इह यस्मिन्दम्पती तौ प्रमत्तौ तदतिसुरभि राधाकुण्डमेवाश्रयो मे॥
9
अविकलमति देव्याश्चारु कुण्डाष्टकं यः परिपठति तदीयोल्लासिदास्यार्पितात्मा। अचिरमिह शरीरे दर्शयत्येव तस्मै मधुरिपुरतिमोदैः श्लिष्यमाणां प्रियां ताम्॥