Balagopala Ashtakam
Ashtakam
1
देव ! त्वदाम्रेडनलम्पटेन दिव्येन निर्व्याजमधुद्रवेण उदीरये किञ्चिदुदञ्चिताभ्यां कर्णाञ्चलाभ्यामवधारयस्व॥
2
स्तोकोत्तानं चरणकमलं दक्षिणं बामजङ्घा मूलापान्ते मृदुनि दधती मञ्जु मध्यं वहन्ती। वल्गद्बालाङ्गुलिदरवलद्वक्त्रनेत्राभिरामं (नेत्राभिरामा) वंशीमग्ना वहतु हृदि वो बालगोपालमूर्तिः॥
3
अक्ष्णामक्ष्णाममृतलुलितं हर्षवर्षं दुहाना बाला नीलाञ्जनपरिणतिर्मन्जुळस्मेरवक्त्रा। अङ्गेष्वङ्गेष्वविरलवहत्कान्तिभारं वहन्ती चेतस्याभिर्भवतु भवतां बालगोपालमूर्तिः॥
4
(चेतस्याविर्भवतु) बर्होत्तंसा विपुलनयना मुग्धवक्त्रेन्दुबिम्बा कम्बुग्रीवा करुणहृदया कोमलाजानुबाहुः। मञ्जन्नाभिर्मृदुलजघना बालपादारविन्दा मन्दं मन्दं वहतु हृदि वो बालगोपालमूर्तिः॥
5
भूयो भूयो विसृतभुवनाह्लादलीलाकटाक्षा भूषाभोगव्यतिकरलुठत्पुष्टकान्तिप्रवाहा। श्रीमद्बर्हाभरणसुभगश्लक्ष्णधम्मल्लभारा चित्ते नित्यं चरतु भवतां बालगोपालमूर्तिः॥
6
माधुर्याणामवधिरवधिर्मञ्जुकैशोरभाजां मङ्गल्यानां प्रथमभवनं मङ्गलं मङ्गलानाम्। वंशीवादव्यसनरसिका विश्वविश्वाननश्री- र्वीचीभारा तरुणयतु वो बालगोपालमूर्तिः॥
7
भावेलीलारचिततिलका भङ्गुरभ्रूपताके (भालेलीला) भद्रां मुद्रां किमपि सुभगं विभ्रती विभ्रमाणाम्। श्रीमद्वंशीवदनवलितैः शीतशीतैरपाङ्गै- श्चित्ताभोगं शिशिरयतु वो बालगोपालमूर्तिः॥
8
श्यामश्यामा शिशिरशिशिरापाङ्गमङ्गल्यलीला स्वादुस्वादुः सरससरसस्निग्धमुग्धाननेन्दुः। स्मेरस्मेरा मधुर मधुरोदार बिम्बाधरोष्ठी मध्येचित्तं वहतु भवतां बालगोपालमूर्तिः॥
9
८। धारा भासां तत इत इति प्रस्फुरन्ती समन्तात् सान्द्रानन्दस्तिमितलहरीभङ्गितुङ्गानुभावा। सेवानम्रत्रिदशपरिषद्दत्तचिसावधाना चेतःपीठीमधिवसतु वो बालगोपालमूर्तिः॥
10
जगदखिलमनोज्ञे बालगोपालवाले किमपि कुतुकभाजा कृष्णलीलाशुकेन। विरचितमिति वाचां वीचिमाधुर्यधारा- परिमलपरिपाकं भावका भावयन्ताम्॥