Svami Abhedananda Ashtakam
Ashtakam
1
समाधियोगेन किशोरभूतस्त्वं सिद्धिमास्थाय विरक्तिमूलाम्। श्रीरामकृष्णस्य विशुद्ध पादान्तिकं गतोऽसि प्रविविक्तचेताः॥
2
कालीतपस्वीति यशोंऽशुमाला विस्तीर्णतां श्रीभगवत्प्रियेषु। गता वतेयं धवला मनस्विस्थिता तव श्वेतमहोर्मितुल्या॥
3
प्रतीच्यदेशेषु विवेकदेवैराकारितो द्वैधविहीनभावः। गतः प्रचारार्थमभयं त्वमेको वेदान्तधर्मस्य महता बलेन॥
4
श्रीरामकृष्णस्तवनं विरच्य प्राप्ता जनन्यास्त्ववचेयमाशीः। कण्ठे वसस्त्वस्य सरस्वती सा धन्यः प्रसादेन ततोऽम्बिकायाः॥
5
अद्वैततत्त्वाधिगमेन देव श्रीरामकृष्णस्य विशेषमारात्। माहात्म्यमेत्य क्रियते प्रचारस्त्वया स्म शुद्ध प्रभुदेव सत्यम्॥
6
सत्यश्चिदानन्दमयोऽयमात्माऽभेदोपलक्ष्यो यत एव तत्त्वम्। अन्वर्थनामा जगति प्रसिद्धस्त्वमेव मत्वाऽन्यदपास्य सर्वम्॥
7
नानागुणानां समुपाश्रयोऽपि ज्ञानैरनल्पैः समलङ्कृतस्त्वम्। शक्त्या महत्या विभूषितश्चाऽहङ्कारलेशे न विवर्जितात्मा॥
8
नमोऽस्तु राजगणार्चिताभ्यां लोकेऽपि दुर्दर्शसुदुर्लभाभ्याम्। विराजितारिव्यसनोपमाभ्यां भक्तैः समाराधितपद्युगाभ्याम्॥
9
इति ब्रह्मचारिमेधाचैतन्यविरचितं ``स्वामि अभेदानन्दाष्टकम्'' सम्पूर्णम्। प्रणाममन्त्रः-- शास्त्रज्ञाय प्रशान्ताय वेदान्तप्रतिपादिने। नमोऽस्त्वभेदपादाय ज्ञानविज्ञानदीप्तये॥