shrIsmaraNAShTakam
Ashtakam
1
यदीयसौभाग्यभरेण गोकुल- स्त्रियो न योग्यानि वचांसि सत्पतेः। न मानयामासुरुदारमानसा- स्तदङ्घ्रिसेवासमयं स्मरामि॥
2
यद्रूपसौन्दर्यवशीकृताशया मृगीगणाः पूजनमादधुर्मुदा। हित्वा समीपस्थितभर्तृभीतिं तदङ्घिसेवासमयं स्मरामि॥
3
यद्वेणुनादश्रवणैकजात- भावाङ्कुरा देववधूसमूहाः। प्रवृद्धभावा मुमुहुः सभर्तृका- स्तदङ्घ्रिसेवासमयं स्मरामि॥
4
यत्पादसञ्चारणजातकाम- भावा यदङ्केन नयत्यतल्पाम्। शान्तिं विचित्रा व्रजभूमिरेषा तदङ्घ्रिसेवासमयं स्मरामि॥
5
यद्बाललीलाकृतचौर्यजात- सन्तोषभावा व्रजगोपवध्वः। उपालभन्ते समयं यमर्भकं तदङ्घ्रिसेवासमयं स्मरामि॥
6
यं गोपनारीगणदर्शनीय- लीलं मुदा गोसुतपुच्छकर्षुकम्। प्रेक्षन्त्य एवोज्झितगेहकृत्याः तङ्घ्रिसेवासमयं स्मरामि॥
7
यद्वाहुसंस्पर्शनजातभाव- रसालवावर्तुलभूतविग्रहः। गोवर्धनो वेद न वृष्टिपातं तदङ्घ्रिसेवासमयं स्मरामि॥
8
यदधरसङ्गतवेणुनिनादं विहितविषयसुखभरनिर्वादम्। श्रुतवत्यो मुखभक्ष्या गावः किं न हि कुरुते तद्गतभावः॥