shrIgopIjanavallabhAShTakam 2
Ashtakam
1
नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय वेणुस्वनैर्मोदितगोकुलाय नमोऽस्तु गोपीजनवल्लभाय॥
2
किरीटकेयूरविभूषिताय ग्रैवेयमालामणिरञ्जिताय। स्फुरच्चलत्काञ्चनकुण्डलाय नमोऽस्तु गोपीजनवल्लभाय॥
3
दिव्याङ्गनावृन्दनिषेविताय स्मितप्रभाचारुमुखाम्बुजाय। त्रैलोक्यसम्मोहनसुन्दराय नमोऽस्तु गोपीजनवल्लभाय॥
4
रत्नादिमूलालयमाश्रिताय कल्पद्रुमच्छायसमाश्रिताय। हेमस्फुरन्मण्डलमध्यगाय नमोऽस्तु गोपीजनवल्लभाय॥
5
श्रीवत्सरोमावलिरञ्जिताय वक्षःस्थले कौस्तुभभूषिताय। सरोजकिञ्जल्कनिभांशुकाय नमोऽस्तु गोपीजनवल्लभाय॥
6
दिव्याङ्गुलीयाङ्गुलिरञ्जिताय मयूरपिच्छच्छविशोभिताय। वन्यस्रजालङ्कृतविग्रहाय नमोऽस्तु गोपीजनवल्लभाय॥
7
मुनीन्द्रवृन्दैरभिसंस्तुताय क्षरत्पयोगोकुलगोकुलाय। धर्मार्थकामामृतसाधकाय नमोऽस्तु गोपीजनवल्लभाय॥
8
एनस्तमःस्तोमदिवाकराय भक्तस्य चिन्तामणिसाधकाय। अशेषदुःखामयभेषजाय नमोऽस्तु गोपीजनवल्लभाय॥