Shri Govardhanashtakam

Ashtakam

1

कृष्णप्रसादेन समस्तशैल साम्राज्यमाप्नोति च वैरिणोऽपि। शक्रस्य यः प्राप बलिं स साक्षा- द्गोवर्धनो मे दिशतामभीष्टम्॥

2

स्वप्रेष्ठहस्ताम्बुजसौकुमार्य सुखानुभूतेरतिभूमि वृत्तेः। महेन्द्रवज्राहतिमप्यजानन् गोवर्धनो मे दिषतामभीष्टम्॥

3

यत्रैव कृष्णो वृषभानुपुत्र्या दानं गृहीतुं कलहं वितेने। श्रुतेः स्पृहा यत्र महत्यतः श्री गोवर्धनो मे दिषतामभिष्टम्॥

4

स्नात्वा सरः स्वशु समीर हस्ती यत्रैव नीपादिपराग धूलिः। आलोलयन् खेलति चारु स श्री गोवर्धनो मे दिषतामभीष्टम्॥

5

कस्तूरिकाभिः शयितं किमत्रे- त्यूहं प्रभोः स्वस्य मुहुर्वितन्वन्। नैसर्गिकस्वीयशिलासुगन्धै- र्गोवर्धनो मे दिषतामभीष्टम्॥

6

वंशप्रतिध्वन्यनुसारवर्त्म दिदृक्षवो यत्र हरिं हरिण्याः। यान्त्यो लभन्ते न हि विस्मिताः स गोवर्धनो मे दिषतामभीष्टम्॥

7

यत्रैव गङ्गामनु नावि राधां आरोह्य मध्ये तु निमग्ननौकः। कृष्णो हि राधानुगलो बभौ स गोवर्धनो मे दिषतामभीष्टम्॥

8

विना भवेत्किं हरिदासवर्य पदाश्रयं भक्तिरतः श्रयामि। यमेव सप्रेम निजेशयोः श्री गोवर्धनो मे दिषतामभीष्टम्॥

9

एतत्पठेद्यो हरिदासवर्य महानुभावाष्टकमार्द्रचेताः। श्रीराधिकामाधवयोः पदाब्ज दास्यं स विन्देदचिरेण साक्षात्॥

10

इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीगोवर्धनाष्टकं समाप्तम् ।॥