Devipadapankajashtakam
Ashtakam
1
श्रीगणेशाय नमः॥
2
मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे सन्ततं मानाथाम्बुजसम्भवाद्रितनयाकान्तैः समाराधितम्। वाच्छापूरणनिर्जितामरमहीरुङ्गर्वसर्वस्वकं वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात्॥
3
मातस्त्वत्पदपङ्कजं मुनीमनःकासारवासादरं मायामोहमहान्धकारमिहिरं मानातिगप्राभवम्। मातङ्गाभिमतिं स्वकीयगमनैर्निर्मुलयत्कौतुकाद्- वन्देऽमन्दतपःफलाप्यनमनस्तोत्रार्चनाप्रक्रमम्॥
4
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारान्निधे राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम्। वृन्दं प्राणभृतां स्वनाम वदतामत्यादरात्सत्वरं षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे॥
5
कामं फालतले दुरक्षरततिर्दैवीममस्तां न भी- र्मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि तां निश्चितम्। मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवात् कालं तद्वदहं चतुर्मुखमुखाम्भोजातसूर्यप्रभे॥
6
पापानि प्रशमं नयाशु ममतां देहेन्द्रियप्राणगां कामादीनपि वैरिणो दृढतरान्मोक्षाध्वविघ्नप्रदान्। स्निग्धान्पोषय सन्ततं शमदमध्यानादिमान्मोदतो मातस्त्वत्पदपङ्कजं हृदि सदा कुर्वे गिरां देवते॥
7
मातस्त्वत्पदपङ्कजस्य मनसा वाचा क्रियातोऽपि वा ये कुर्वन्ति मुदाऽन्वहं बहुविधैर्दिव्यैः सुमैरर्चनाम्। शीघ्रं ते प्रभवन्ति भूमिपतयो निन्दन्ति च स्वश्रिया जम्भारातिमपि ध्रुवं शतमखीकष्टाप्तनाकश्रियम्॥
8
मातस्त्वत्पदपङ्कजं शिरसि ये पद्माटवीमध्यत- श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम्। ते मृत्युं प्रविजित्यि रोगरहिताः सम्यग्दृढाङ्गाश्चिरं जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि॥
9
मातस्त्वत्पदपङ्कजं हृदि मुदा ध्यायन्ति ये मानवाः सच्चिद्रूपमशेषवेदशिरसां तात्पर्यगम्यं मुहुः। अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा सर्वं विश्वमिदं विनाशि तरसा पश्यन्ति ते पूरुषाः॥
10
इति देवीपदपङ्कजाष्टकं सम्पूर्णम्॥