Malahanikareshvara Ashtakam
Ashtakam
1
तुङ्गोत्तमाङ्गविलसन्मृगभृत्कलाय शृङ्गाद्रिवासरसिकाय महेश्वराय। शीतांशुभास्करकृशानुदृशे भवानी- भर्त्रे नमोऽस्तु मलहानिकरेश्वराय॥
2
शर्वाय कश्यपमुनीन्द्रकुलाब्धिचन्द्र- श्रीमद्विभाण्डककृताग्र्यतपःफलाय। श्रीऋष्यशृङ्गमुनिसेव्यपदाम्बुजाय नित्यं नमोऽस्तु मलहानिकरेश्वराय॥
3
शृङ्गाद्रिदेशिकवरेण्यसुपूजिताय नम्राखिलेष्टपरिपूरणतत्पराय। अस्तोकदुःखकृदवग्रहवारकाय नित्यं नमोऽस्तु मलहानिकरेश्वराय॥
4
सच्चित्सुखाभिधगुरुप्रवरेण वामे संस्थापिताद्रिसुतया सह विष्टपानि। गोपायते नृपकदम्बकसेविताय पित्रेऽस्तु तारकजितः प्रणतिर्भवाय॥
5
श्रीमन्नृसिंहगुरुणाभिनवेन सद्यः संस्थापितं निजतनूजमचिन्त्यशक्तिम्। स्तम्भस्थितं प्रथमपूज्यमवेक्ष्य नित्यं मोमुद्यमानहृदयाय नमश्शिवाय॥
6
नित्योत्सवाय निगमागमतत्त्वविद्भिः सङ्गीयमानविभवाय निरञ्जनाय। निर्वाणदाय निजभक्तततेश्च नाना- मोहान्धकारमिहिराय नमश्शिवाय॥
7
पद्मोद्भवाब्जनयनप्रमथाधिपात्मा सर्गस्थितिप्रलयकृत् गुणयोगतो यः। आनन्दबोधपरिपूर्णसदात्मकाय तस्मै शिवाय नतिरस्तु गुणातिगाय॥
8
यस्मिन् विभाण्डकमुनिर्निजबोधयुक्तः एकीबभूव विनिवृत्तसमस्तबन्धः। तस्मै सदा श्रुतिशिरःप्रतिपाद्यजीव- ब्रह्मैक्यबोधनरताय नमश्शिवाय॥
9
इति दक्षिणाम्नाय-शृङ्गेरी-शारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य- श्रीश्रीश्रीभारतीतीर्थ-महास्वामि-करकमलसञ्जातैः जगद्गुरु-श्रीश्रीविधुशेखरभारती-महास्वामिभिः विरचितं मलहानिकरेश्वराष्टकं सम्पूर्णम् ।॥