Surabharati Ashtakam

Ashtakam

1

नित्यं स्वतन्त्रं प्रथमं च सत्य- मार्य्येषु गेयं परमं पवित्रम्। वेदादिभूतं सुरभाषितञ्च लीलाकरं संस्कृतमर्चयामि॥

2

आब्रह्मस्तम्भाय चराचराय भूगोलमालाधरकोमलाय। नमोनमो भारतभूषणाय श्रीसंस्कृताय प्रवराय तस्मै॥

3

भाषानिर्जितहेमकुङ्कुमरसा वासान्विता कोमला विख्याता सुरभारती सुरुचिरा काव्येषु वेदेषु च। धर्मे व्याकरणे पुराणसकले षड्दर्शने ज्योतिषे विश्वे संस्कृतनामिता सुललिता भूयात्सतां श्रेयसे॥

4

सुरमुखरसभोक्त्रे भोगमोक्ष्यैकदात्रे नवनिधिमखधात्रे स्वात्मविज्ञानगोप्त्रे। सरलमधुरवक्त्रे लोककल्याणकर्त्रे विपुलसुखविधात्रे संस्कृताय प्रणामः॥

5

अम्लानपुष्पमकरन्दसुमिष्टसारं सारं सुभोग्यपरमार्थनितान्तमुग्धम्। स्निग्धं प्रसन्नसृजनात्मकवेदमूलं शीलं हि संस्कृतकुलं भुवि भावयामि॥

6

शास्त्रसंस्कृतिपरं सुविचारं मोक्षमन्दिरसुरेश्वरगौरम्। शीतलं चरमधामसुगीतं संस्कृतं मम महाधनमस्तु॥

7

संस्कृताय सरलाय सुखाय सर्वशब्दललनारसिकाय। गौरवाय परमाय पराय हे नमः परमसुन्दरि वाचे॥

8

पर्वमण्डिततरे सुरवाणि देहि मे सकलसंस्कृतदानम्। नास्ति चेत्प्रियसखे मयि दातुं स्वागतं ललितकोमलभाषे॥