Shri Purushottama Ashtakam
Ashtakam
1
दिव्यभूषणहेमनिर्मितभूषितं तुलसीप्रियं टाहिआ-धरराजशेखरराजपूजितसुन्दरम्। विश्ववन्दितचक्रधारकघोषकारकवैभवं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
2
गुण्डिचामखधारकं जनरञ्जनं रथहासिनं नीलपर्वतनीलमाधवभक्ततारणदुर्लभम्। प्रेममिश्रितवारिशीतलचन्दनायितकेशवं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
3
दारुदैवतसर्वसुन्दरवेशकारितकौशलं श्रीमहाप्रभुरूपमोहक इन्दिराप्रियवल्लभम्। रत्नमण्डपपूज्यपूजकरूपरूपिणमीश्वरं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
4
वेणुवादकगोपनायकक्षीरसागरशायिनं राघवं मधुसूदनं भज लक्ष्मणाग्रजधन्विनम्। शान्तिदायकबुद्धभास्वरजैनजीवनरक्षकं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
5
भोगकारक-अन्नखादकदिव्यजीवनयापिनं धर्मरक्षकदुष्टनाशकशिष्टपालनकारितम्। क्षेत्रपूजितनेत्रमोहकनीरजाननमञ्जुलं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
6
नीलसागरतीरमन्दिरसज्जितं सुखसम्पदं पूर्णकारणकार्यघोषितभेदबोधितभक्तिदम्। कूटवञ्चकचञ्चलाश्रितहारमण्डितकौस्तुभं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
7
दर्शनं नवयौवनं कलितं कलेवरधारिणं कोटिभास्करदीप्तिधूपितदेवमानवदुर्लभम्। नन्दिघोषविहारकारणपार्थसारथिभाषिनं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥
8
पापपङ्किललोकदण्डितनन्दतारकचञ्चलं दासभाजनशोकनाशनखेदभेदनसौष्ठवम्। हे रमावर कृष्णनागरजानकीचरनिर्जरं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम्॥