Ashtabhujashtakam

Ashtakam

1

वेदान्तदेशिककृतम्। (काञ्च्यां) गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः। अपारविज्ञानदयानुभावमाप्तं सतामष्टभुजं प्रपद्ये॥

2

त्वदेकशेषोऽहमनात्मतन्त्रस्त्वत्पादलिप्सां दिशता त्वयैव। असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि॥

3

स्वरूपरूपास्त्रविभूषणाद्यैः परत्वचिन्तां त्वयि दुर्निवाराम्। भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम्॥

4

शक्तिं शरण्यान्तरशब्दभाजां सारं च सन्तोल्य फलान्तराणाम्। त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ विभर्षि भारम्॥

5

अभीतिहेतोरनुवर्तनीयं नाथ त्वदन्यं न विभावयामि। भयं कुतः स्यात्त्वयि सानुकम्पे रक्षा कुतः स्यात्त्वयि जातरोषे॥

6

त्वदेकतन्त्रं कमलासहाय स्वेनैव मां रक्षितुमर्हसि त्वम्। त्वयि प्रवृत्ते मम किं प्रयासैस्त्वय्यप्रवृत्ते मम किं प्रयासैः॥

7

समाधिभङ्गेष्वपि सम्पतत्सु शरण्यभूते त्वयि बद्धकक्ष्ये। अपत्रपे सोढुमकिञ्चनोऽहं दूराधिरोहं पतनं च नाथ॥

8

प्राप्ताभिलाषं त्वदनुग्रहान्मां पद्मानिषेव्ये तव पादपद्मे। आदेहपातादपराधदूरमात्मान्तकैङ्कर्यरसं विधेयाः॥

9

प्रपन्नजनपाथेयं प्रपित्सूनां रसायनम्। श्रेयसे जगतामेतच्छ्रीमदष्टभुजाष्टकम्॥

10

शरणागतसन्त्राणत्वरा द्विगुणबाहुना। हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम्॥