Shri Hanumadacharya Ashtakam

Ashtakam

1

आनन्दभाष्यतत्त्वस्य वेदिनं ब्रह्मवादिनम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

2

संस्कृत्य पञ्चसंस्कारैवैष्णवत्वविधायिनम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

3

जित्वा चावैष्णवान् सिद्धान् वैष्णवधर्मरक्षकम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

4

रामभक्तिप्रपत्तिभ्यां भक्तानामभयप्रदम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

5

रामानन्दीयधर्मस्योपदेशाद् भक्तिमुक्तिदम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

6

सिद्धेन्द्रं सिद्धिदातारं सिद्धयोगीन्द्रसेवितम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

7

रामकीर्त्तनकर्त्तारं रामाराधनकारकम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥

8

हनूमतः कृपापात्रं रहस्यज्ञानसागरम्। वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम्॥