Shri Chidambara Ashtakam 1
Ashtakam
1
ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम्। कर्मनिवारणकौशललिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
2
कल्पकमूलप्रतिष्ठितलिङ्गं दर्पकनाशयुधिष्ठिरलिङ्गम्। कुप्रकृतिप्रकरान्तकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
3
स्कन्दगणेश्वरकल्पितलिङ्गं किन्नरचारणगायकलिङ्गम्। पन्नगभूषणपावनलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
4
सांबसदाशिवशङ्करलिङ्गं काम्यवरप्रदकोमललिङ्गम्। साम्यविहीनसुमानसलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
5
कलिमलकाननपावकलिङ्गं सलिलतरंगविभूषणलिङ्गम्। पलितपतंगप्रदीपकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
6
अष्टतनुप्रतिभासुरलिङ्गं विष्टपनाथविकस्वरलिङ्गम्। शिष्टजनावनशीलितलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
7
अन्तकमर्दनबन्धुरलिङ्गं कृन्तितकामकलेवरलिङ्गम्। जन्तुहृदिस्थितजीवकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम्॥
8
पुष्टधियस्सु चिदंबरलिङ्गं दृष्टमिदं मनसानुपठन्ति। अष्टकमेतदवाङ्मनसीयं अष्टतनुं प्रति यान्ति नरास्ते॥