Narayana Suktam

Opening

1

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

2

ॐ शान्तिः शान्तिः शान्तिः ॥

Sukta

1

ॐ ॥ सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवं । विश्वं नारायणं देवमक्षरं परमं पदम् ।

2

विश्वतः परमान्नित्यं विश्वं नारायणꣳ हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।

3

पतिं विश्वस्यात्मेश्वरꣳ शाश्वतꣳ शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ।

4

नारायणपरो ज्योतिरात्मा नारायणः परः । नारायण परं ब्रह्म तत्त्वं नारायणः परः ।

5

नारायणपरो ध्याता ध्यानं नारायणः परः । यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥

6

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । अनन्तमव्ययं कविꣳ समुद्रेऽन्तं विश्वशम्भुवम् ।

7

पद्मकोश प्रतीकाशꣳ हृदयं चाप्यधोमुखम् । अधो निष्ट्या वितस्यान्ते नाभ्यामुपरि तिष्ठति ।

8

ज्वालमालाकुलं भाति विश्वस्यायतनं महत् । सन्ततꣳ शिलाभिस्तुलम्बत्याकोशसन्निभम् ।

9

तस्यान्ते सुषिरꣳ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।

10

सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः । तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता ।

11

सन्तापयति स्वं देहमापादतलमस्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ।

12

नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।

13

तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥

Close

1

ऋतꣳ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ।

2

ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥