Gayatri Ashtakam

Ashtakam

1

विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम्। ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

2

जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम्। प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

3

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम्। जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

4

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिकान् बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम्। भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

5

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम्। मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

6

सन्ध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां ताराहीरसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम्। राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

7

वेणीभूशितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम्। नासालंकृतमौक्तिकेन्दुकिरणैः सायन्तमश्छेदिनीं गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

8

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम्। वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम्॥

9

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासङ्गमान् दोषाञ्छैलसमान् पुरन्दरसमाः सञ्च्छिद्य सूर्योपमाः। गायत्रीं श्रुतिमातुरेकमनसा सन्ध्यासु ये भूसुरा जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः॥