Shri Gopinathadevashtakam

Ashtakam

1

आस्ये हास्यं तत्र माध्वीकमस्मिन् वंशी तस्यां नादपीयूषसिन्धुः। तद्वीचीभिर्मज्जयन् भाति गोपी- र्गोपीनाथः पीनवक्षा गतिर्नः॥

2

शोणोष्णीषभ्राजिमुक्तास्रजोद्यत् पिञ्छोत्तंसस्पन्दनेनापि नूनम्। हृन्नेत्रालीवृत्तिरत्नानि मुञ्चन् गोपीनाथः पीनवक्षा गतिर्नः॥

3

बिभ्रद्वासः पीतमूरूरुकान्त्या श्लीष्टं भास्वत्किङ्किणीकं नितम्बे। सव्याभीरीचुम्बितप्रान्तबाहु- र्गोपीनाथः पीनवक्षा गतिर्नः॥

4

गुञ्जामुक्तारत्नगाङ्गेयहारै- र्माल्यैः कण्ठे लम्बमानैः क्रमेण। पीतोदञ्चत्कञ्चुकेनाञ्चितश्री- र्गोपीनाथः पीनवक्षा गतिर्नः॥

5

श्वतोष्णीषः श्वेतसुश्लोकधौतः सुश्वेतस्रक्द्वित्रशः श्वेतभूषः। चुम्बन् शर्यामङ्गलारात्रिके हृ- द्गोपीनाथः पीनवक्षा गतिर्नः॥

6

श्रीवत्सश्रीकौस्तुभोद्भिन्नरोम्णां वर्णैः श्रीमान् यश्चतुर्भिः सदेष्टः। दृष्टः प्रेम्णैवातिधन्यैरनन्यै- र्गोपीनाथः पीनवक्षा गतिर्नः॥

7

तापिञ्छः किं हेमवल्लीयुगान्तः पार्श्वद्वन्द्वोद्द्योतिविद्युद्घनः किम्। किं वा मध्ये राधयोः श्यामलेन्दु- र्गोपीनाथः पीनवक्षा गतिर्नः॥

8

श्रीजाह्नव्या मूर्तिमान् प्रेमपुञ्जो दीनानाथान् दर्शयन् स्वं प्रसीदन्। पुष्णन् देवालभ्यफेलासुधाभि- र्गोपीनाथः पीनवक्षा गतिर्नः॥

9

गोपीनाथाष्टकं तुष्टचेता- स्तत्पदाब्जप्रेमपुष्णीभविष्णुः। योऽधीते तन्मन्तुकोटीरपश्यन् गोपीनाथः पीनवक्षा गतिर्नः॥

10

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोपिनाथाष्टकं सम्पूर्णम् ।॥