Shri Yantroddharaka Mangala Ashtakam

Ashtakam

1

यन्त्रोद्धारकनामको रघुपतेराज्ञां गृहीत्वार्णवं तीर्त्वाशोकवने स्थितां स्वजननीं सीतां निशाम्याशुगः। कृत्वा संविदमङ्गुलीयकमिदं दत्वा शिरोभूषणं सङ्गृह्यार्णवमुत्पपात हनूमान् कुर्यात् सदा मङ्गलम्॥

2

प्राप्तस्तं सदुदारकीर्तिरनिलः श्रीरामपादाम्बुजं नत्वा कीशपतिर्जगाद पुरतः संस्थाप्य चूडामणिम्। विज्ञाप्यार्णवलङ्घनादिशुभकृन्नानाविधं भूतिदं यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

3

धर्माधर्मविचक्षणः सुरतरुर्भक्तेष्टसन्दोहने दुष्टारातिकरीन्द्रकुम्भदलने पञ्चाननः पाण्डुजः। द्रौपद्यै प्रददौ कुबेरवनजं सौगन्धिपुष्पं मुदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

4

यः किर्मीर-हिडिम्ब-कीचक-बकान् प्रख्यातरक्षोजनान् संहृत्य प्रययौ सुयोधनमहन् दुःशासनादीन् रणे। भित्वा तद्धृदयं स घोरगदया सन्मङ्गलं दत्तवान् यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

5

यो भूमौ महदाज्ञया निजपतेर्जातो जगज्जीवने वेदव्यासपदाम्बुजैकनिरतः श्रीमध्यगेहालये। सम्प्राप्ते समये त्वभूत् स च गुरुः कर्मन्दिचूडामणिः यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

6

मिथ्यावादकुभाष्यखण्डनपटुर्मध्वाभिधो मारुतिः सद्भाष्यामृतमादरान्मुनिगणैः पेपीयमानं मुदा। स्पृष्ट्वा यः सततं सुरोत्तमगणान् सम्पात्ययं सर्वदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

7

पाकार्कार्कसमानसान्द्रपरमासाकीर्ककाकारिभि- र्विद्यासार्कजवानरेरितरुणा पीतार्कचक्रः पुरा। कङ्कार्कानुचरार्कतप्तजरया तप्ताङ्कजातान्वितो यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

8

श्रीमद्व्यासमुनीन्द्रवन्द्यचरणः श्रेष्ठार्थसम्पूरणः सर्वाघौघनिवारणः प्रविलसन्मुद्रादिसम्भूषणः। सुग्रीवादिकपीन्द्रमुख्यशरणः कल्याणपूर्णः सदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्॥

9

यन्त्रोद्धारकमङ्गलाष्टकमिदं सर्वेष्टसन्दायकं दुस्तापत्रयवारकं द्विजगणैः सङ्गृह्यमाणं मुदा। भक्ताग्रेसरभीमसेनरचितं भक्त्या सदा यः पठेत् श्रीमद्वायुसुतप्रसादमतुलं प्राप्नोत्यसौ मानवः॥