Shri Haryashtakam

Ashtakam

1

प्रह्लादकृतम्। हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः। अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः॥

2

स गङ्गा स गया सेतुः स काशी स च पुष्करम्। जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्॥

3

वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च। यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम्॥

4

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च। तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम्॥

5

गवां कोटिसहस्राणि हेमकन्यासहस्रकम्। दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्॥

6

ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः। अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम्॥

7

अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च। इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्॥

8

प्राणः प्रयाणपाथेयं संसारव्याधिनाशनम्। दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम्॥

9

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति। सकृदुच्चारितं येन हरिरित्यक्षरद्वयम्॥

10

हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्। आयुष्यं बलमारोग्यं यशो वृद्धिश्श्रियावहम्॥

11

प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम्। यः पठेत्स नरो याति तद्विष्णोः परमं पदम्॥