Shri Harimahima Ashtakam

Ashtakam

1

(इन्द्रवज्रा-उपजाति वृत्तम्) श्रीधर्म-सद्मन्यवतीर्य विष्णु- र्यो वासुदेवो हरिकृष्ण ईशः। श्रीनीलकण्ठोऽत्र पुनाति मर्त्यान् ध्याये हरिं तं हृदि धर्मपुत्रम्॥

2

यस्य स्वरूपे तिल-लक्षणानि स्वभक्तचेतांसि हरन्ति यद्वत्। अयांसि चाकर्षमणि-प्रवेका ध्याये हरिं तं हृदि धर्मपुत्रम्॥

3

यस्याक्षरे धामनि यत्प्रसक्ताः क्रीडन्ति दिव्येऽक्षर-संज्ञमुक्ताः। सम्राट् तनूजा इव सर्वमान्या ध्याये हरिं तं हृदि धर्मपुत्रम्॥

4

यस्यास्यपद्मेऽद्भुतभूरि शोभे वसन्ति नेत्रभ्रमरा जनानाम्। हंसा यथा मानस-पद्मवृन्दे ध्याये हरिं तं हृदि धर्मपुत्रम्॥

5

यः पोषयत्यत्र निजान् स्वकीय- ज्ञानोपदेशेन सुधोपमेन। वत्सान् सुशीला पयसा यथा गौर् ध्याये हरिं तं हृदि धर्मपुत्रम्॥

6

पाखण्डधर्मा ह्युदयेन यस्य शाक्ता व्यलीयन्त यथोदितेऽर्के। घूका वृषद्वेषिण एव चान्ये ध्याये हरिं तं हृदि धर्मपुत्रम्॥

7

यत्पाद-पद्मेऽक्षरमुक्त-चेतो भृङ्गा रमन्ते सरसीव मीनाः। आसेव्यमाने भुवि भूरिभक्तैर् ध्याये हरिं तं हृदि धर्मपुत्रम्॥

8

यदीय-सौन्दर्य-गुणादिपारं शेषादयो यान्ति न यस्य भक्ताः। वाञ्छन्ति नाप्यक्षर-सौख्यमन्तर् ध्याये हरिं तं हृदि धर्मपुत्रम्॥

9

इति श्रीगोपाळानन्दस्वामिविरचितं श्रीहरिमहिमाष्टकं सम्पूर्णम् ।॥