Shri Siddhalinga Ashtakam
Ashtakam
1
-श्री एम. जि. नञ्जुण्डाराध्यविरचितं आत्मानात्मविवेकपूर्णकुशलं विद्यावधूवल्लभं पञ्चाचारविचार षट्स्थलसुधास्वादैकवेद्यं विभुम्। व्योमातीत सुकीर्तियुक्तममलं भक्तेष्टसिद्धि प्रदं वन्दे तोण्टद सिद्धलिङ्गयतिनं श्रीशैवरत्नाकरम्॥
2
यं ब्रह्मेन्द्रमरुद्गणाः प्रतिदिनं ध्यायन्ति भक्त्या मुदा वेदाद्येःप्रतिपाद्यमानविभवं तं देवदेवं शिवम्। योगाभ्यासबलान्नियम्य हृदये यो लोकवन्द्यो बभौ वन्दे तोण्टद सिद्धलिङ्गयतिनं श्री शैवरत्नाकरम्॥
3
सत्पत्नीतनुजाप्तमित्र विभवा नित्याः किलेति प्रभो ! भ्रान्तोऽहं निजतत्वमार्गविमुखो घूर्णामि भूमौ सदा। आशापाशविमोचनैकचतुरं त्वां सर्वसंरक्षकं वन्दे तोण्टद सिद्धलिङ्गयतिनं श्रीशैवरत्नाकम्॥
4
निर्लिप्तं करुणाकरं सुखमयं शान्तं महोत्साहिनं भक्ताधीनसुमङ्गलाङ्गविभवं चिल्लिङ्गलोलं गुरुम्। वेदान्तागमशास्त्रविदमणिं सत्यव्रतं स्वामिनं वन्दे तोण्टद सिद्धलिङ्गयतिनं श्रीशैवरत्नाकरम्॥
5
लब्ध्वापुण्यलवं शिवस्य कृपया प्राप्य स्वरूपश्रियं मूकान्धादिविकारजालसरणिं यावत्तु न प्राप्नुयाम्। तावत्वां सुरसेवितं सुखकरं संसारशैलाशनिं वन्दे तोण्टद सिद्धलिङ्गयतिनं श्रीशैवरत्नाकरम्॥
6
विद्युल्लोलविलोभकारिविषयव्यासक्त चित्तस्सदा कामक्रोधनिबद्धमूर्तिरनिशं ताम्यामि भूमौ विभो !। मोहाम्भोनिधितारकं यतिनुतं सुज्ञानदानाग्रणीं वन्दे श्रीगुरु सिद्धलिङ्गयतिनं श्रीशैवरत्नाकरम्॥
7
मोहध्वान्तविभेदकं शिवरतिज्योत्सनासुधासेचकं पुण्यारण्यचरैक दिव्यशिखिनं कैवल्यकल्पद्रुमम्। संसारार्णवमग्नलोकतरणिं भव्यात्मसंशोभितं वन्दे तोण्टद सिद्धलिङ्गयतिनं श्रीशैवरत्नाकरम्॥
8
आनन्दाम्बुधिचन्द्र बन्धुर कृपामन्दार सत्याश्रय नानायोगिवरेण्यवन्दित लसत्पादाब्ज विद्योतित। भानुज्योतिरतीतकान्तिमहिमः श्रीसिद्धलिङ्गप्रभो ! त्वां वन्दे भवमोचनायसुगुरो ! मां रक्ष रक्षाधुना॥
9
सिद्धलिङ्गाष्टकं लोके यः पठेच्छृणुयादपि विमुच्यकिल्बिषैस्सर्वैशिवप्रीतिमवाप्नुयात्। अमरोक्ताष्टकं चेदं जीयादाचन्द्रतारकम् भक्तेष्टार्थप्रदो देवो सिद्धलिङ्गो विराजतम्॥