Minakshi Ashtakam 2

Ashtakam

1

सामीनश्रीरञ्जितपङ्केरुह कान्तेर्नामी यस्याः पादसरोजद्वितयस्य। कमी नाक्षीणाशुभवृत्तिर्लभते तां सा मीनाक्षी पातु समीकृत्य ममागः॥

2

अव्यादव्यापादरतध्येयपदाब्जा दिव्या दिव्यापन्निचयान्मामपचेयात्। स्तव्या भव्यापादनशीला निगमान्तैरव्याहारव्यापृतिभूमीनदृगीशा॥

3

विद्यल्लेखाविभ्रमविश्राणनदीक्षाबद्धोत्साहश्रीपरिरब्धाङ्गलतायाः। मुग्धाकारस्मेरमुखेन्दोर्गिरिजायाः किञ्चिन्मे निष्क्रिञ्चनगम्यं प्रतिभाति॥

4

पाणौ वीणामादधती कीरकिशोरध्वानध्यातः स्वञ्चिततन्त्रीध्वनिभेदम्। लावण्याब्धिर्लक्षितकारुण्यकटाक्षा श्यामा कामं मीनदृगम्बा परिपातु॥

5

कामारामोद्दामकटाक्षोत्कलिकाभिः क्षेमक्षामक्षालनदक्षा सुजनानाम्। देवी वाचामाचरणान्तादनवद्या भायादन्तस्सन्ततमम्बा शफराक्षी॥

6

चारुस्मेराम्भोरुहकिञ्जल्कसरूपामापादाग्रादञ्चितभूषामुषिताङ्गीम्। मालापाशौ पुस्तकचापौ च दधानां मीनाक्षीं तां चेतसि बालां कलयामि॥

7

वेणीमूलामुक्तनिशानाथवतंसा फालोन्मीलल्लोचनसङ्घर्षिललामा। कीरालापध्मापितमन्दस्मितवक्त्रा मीनाक्षी नश्चेतसि नित्यं प्रतिभायात्॥

8

अम्बाकाराः सन्तु सहस्रं सुरवन्द्याः किञ्चालम्बे कामपि मूर्तिं कमनीयाम्। लीलाकीरालङ्कृत पाणिं ललिताङ्गीं लोलापाङ्गां मीनदृगाख्यां शिवपत्नीम्॥

9

प्रातःकाले जल्पति यो ना नियतात्मा स्मृत्वा देवीमष्टकमिष्टार्थदमेतत्। तस्य प्रीता सम्पदमुच्चैरपि वाचं दद्यादद्यालोकसवित्री शफराक्षी॥

10

श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना। कृष्णानन्दसरस्वत्या श्रीमीनाक्ष्यष्टकं कृतम्। इति कृष्णानन्दकृतिषु मीनाक्ष्यष्टकं सम्पूर्णम्॥