ramApatyashtakam

Ashtakam

1

श्रीगणेशाय नमः॥

2

जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनुम्। धृतकञ्जरथाङ्गगदं विगदं प्रणमामि रमाधिपतिं तमहम्॥

3

कमलाननकञ्जरतं विरतं हृदि योगिजनैः कलितं ललितम्। कुजनैः सुजनैरलभं सुलभं प्रणमामि रमाधिपतिं तमहम्॥

4

मुनिवृन्दहृदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम्। हृतवासवमुख्यमदं विमदं प्रणमामि रमाधिपतिं तमहम्॥

5

हृतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम्। समपास्त गजेन्द्रदरं सुदरं प्रणमामि रमाधिपतिं तमहम्॥

6

परिकल्पितसर्वकलं विकलं सकलागमगीतगुणं विगुणम्। भवपाशनिराकरणं शरणं प्रणमामि रमाधिपतिं तमहम्॥

7

मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरम्। परितुष्टरमाहृदयं सुदयं प्रणमामि रमाधिपतिं तमहम्॥

8

सकलावनिबिम्बधरं स्वधरं परिपूरितसर्वदिशं सुदृशम्। गतशोकमशोककरं सुकरं प्रणमामि रमाधिपतिं तमहम्॥

9

मथितार्णवराजरसं सरसं ग्रथिताखिललोकहृदं सुहृदम्। प्रथिताद्भुतशक्तिगणं सुगणं प्रणमामि रमाधिपतिं तमहम्॥

10

सुखराशिकरं भवबन्धहरं परमाष्टकमेतदनन्यमतिः। पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम्॥

11

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरमापत्यष्टकं सम्पूर्णम्॥