kAmAkShyaShTakam

Ashtakam

1

श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां कल्याणीं कमनीयचारुमकुटां कौसुम्भवस्त्रान्विताम्। श्रीवाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां कामाक्क्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

2

मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम्। वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

3

श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां शर्वालिङ्गितनीलचारुवपुषीं शान्तां प्रवालाधराम्। बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

4

लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शङ्करीं ब्रह्माणीं भवरोगतापशमनीं भव्यात्मिकां शाश्वतीम्। देवीं माधवसोदरीं शुभकरीं पञ्चाक्षरीं पावनीं कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

5

वामां वारिजलोचनां हरिहरब्रह्मेन्द्रसम्पूजितां कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम्। देवीं शुम्भनिषूदिनीं भगवतीं कामेश्वरीं देवतां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

6

कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम्। देवीं शङ्करहृत्सरोजनिलयां सर्वाघहन्त्रीं शुभां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

7

शान्तां चञ्चलचारुनेत्रयुगलां शैलेन्द्रकन्यां शिवां वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम्। सौम्यां सिन्धुसुतां सरोजवदनां वाग्देवतामम्बिकां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥

8

चन्द्रार्कानललोचनां गुरुकुचां सौन्दर्यचन्द्रोदयां विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम्। मुग्धस्मेरसमीक्षणेन सततं सम्मोहयन्तीं शिवां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम्॥