Shri Pipacharya Ashtakam
Ashtakam
1
गाङ्गरौनगढेशं च खाचीवंशशिरोमणिम्। पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
रामानन्दयतीन्द्रस्य शिष्यं श्रीवैष्णवोत्तमम्। पीपाचार्यमहं वन्दे द्वाराचार्य जगद्गुरुम्॥
3
सागरस्यान्तरे श्रीमद्द्वारावत्याश्च दर्शकम्। पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
रामानन्दमताम्भोधेर्वर्धकं विधुमुत्तमम्। पीपाचार्यमहं वन्दे द्वाराचार्य जगद्गुरुम्॥
5
भक्तानन्दविधातारमानन्दभाष्यचिन्तकम्। पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
रामभक्तिप्रपत्तिभ्यां मुक्त्यानन्दप्रदायकम्। पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
श्रीवैष्णवत्वकर्त्तारं संस्कारपञ्चकेन हि। पीपाचार्यमहं वन्दे द्वाराचार्य जगद्गुरुम्॥
8
त्रयाणां सद्रहस्यानां बोधकं च तपस्विनम्। पीपाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥