Shrikrishna Bhajana Ashtakam
Ashtakam
1
कंसदलनमुक्तिमिलनभुक्तिभवनकाशितं दुष्टशकटराहुकपटकालियशठशासितम्। दानवमधुकैटभमुरदारुणवकनाशितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
2
ब्रह्मकिरणमुग्धवदनमङ्गलमयवीक्षणं सान्द्रललितकुञ्जनिकटकेलितरलकारणम्। धर्मविनतकर्मनिरतभोगनिकरधारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
3
पूर्णपुरुषयोगजनकभोगसकलधारकं दुस्तरभवपारकपटुनाविकहरिनामकम्। दुर्जनमुखमर्दनगुणवर्द्धनदरदारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
4
वैभवसुखसागरतटशुद्धसलिलशीतलं स्मितरुचिरफुल्लकमलवेणुनिनदकोमलम्। मन्दमलयचन्दनमुखनन्दितशुभवन्दितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
5
शान्तसरलभक्तविधुरमाधवमधुसूदनं देवमदनमोहन-अपवर्गविभवधारिणम्। गोपयुवतिवल्लभचिरसुन्दरतरलायितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
6
वल्लवललनासुखमुखचुम्बनरतिविह्वलं चारुहसनपीतवसनमोहनशशिमण्डलम्। वन्यकुसुमनम्रसुषमसज्जितदमधारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
7
प्रेमखचितकुञ्जसदनकेलिकुतुकनर्तनं यामुनतटमण्डलनटपाटवजलखेलनम्। लुब्धललितरासकलितकुङ्कुममृदुवासितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
8
प्रेमकरुणमूर्तितरुणपूर्तिसकलकारकं भक्तनयनचित्रितनवनाटकनटनायकम्। दारुपुरुषनेत्रवलयसर्वभुवनभूषितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम्॥
9
इति नन्दप्रदीप्तकुमारविरचितं श्रीकृष्णभजनाष्टकं सम्पूर्णम् ।॥