murukAShTakam
Ashtakam
1
ॐ श्री गणेशाय नमः मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः। वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा॥
2
मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो। देवदेव महासेन पाहि पाहि सदा विभो॥
3
मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम्। मोचकं सर्वदुःखानां मोहनाशं सदा नुमः॥
4
मुरुकेण मुकुन्देन मुनीनां हार्दवासिना। वल्लीशेन महेशेन पालितास्सर्वदा वयम्॥
5
मुरुकाय नमः प्रातः मुरुकाय नमो निशि। मुरुकाय नमः सायं मुरुकाय नमो नमः॥
6
मुरुकात्परमात्सत्याद्गाङ्गेयाच्छिखिवाहनात्। गुहात्परं न जानेऽहं तत्त्वं किमपि सर्वदा॥
7
मुरुकस्य महेशस्य वल्लीसेनापतेः प्रभोः। चिदम्बरविलासस्य चरणौ सर्वदा भजे॥
8
मुरुके देवसेनेशे शिखिवाहे द्विषड्भुजे। कृत्तिकातनये शम्भौ सर्वदा रमतां मनः॥
9
इति मुरुकाष्टकं सम्पूर्णम्॥