shrIgopAlalAlAShTakam

Ashtakam

1

श्रीमदाचार्यचरणौ साष्टाङ्गं प्रणिपन्पतौ। विरच्यतेऽष्टकमिदं श्रीमद्गोपालपुष्टिदम्॥

2

यस्यानुकम्पावशतः सुदुर्लभं मानुष्यमाप्तं परमस्य पुंसः। सर्वार्थदं दीनदयालुमेकं गोपाललालं शरणं प्रपद्ये॥

3

योऽदात्स्वसेवोपयिकं शरीरं साङ्गं समर्थं शुभमर्थदं च। सेवाऽनभिज्ञः परमस्य तस्य गोपाललालं शरणं प्रपद्ये॥

4

निजाङ्गसन्दर्शनयोगयोग्यता योऽदाद्दृशं मे परमो दयालुः। तदङ्गसौन्दर्य्यरसावभिज्ञो गोपाललालं शरणं प्रपद्ये॥

5

श्रीमत्कथासंश्रवणोपयोगि- श्रोत्रं ददौ यः करुणारसाब्धिः। कथामृतास्वादनमूढचेता गोपाललालं शरणं प्रपद्ये॥

6

वाचं ददौ श्रीगुणज्ञानयोग्यां व्रजाङ्गनाङ्गाभरणाङ्गमूर्तिम्। तथापि नाम्नामनुकीर्तनेऽलसो गोपाललालं शरणं प्रपद्ये॥

7

घ्राणेन्द्रियं मे तुलसीविमिश्र- पादाञ्जसन्दिग्धपरागयोग्यम्। ददौ कृपालुर्ह्यपराधिने यो गोपाललालं शरणं प्रपद्ये॥

8

शिरश्च पादाम्बुजसन्प्रणाम- योग्यं ददौ यो यदुवंशचन्द्रः। स्तुत्या च नत्या विनयेन हीनो गोपाललालं शरणं प्रपद्ये॥

9

जनोऽपराधानसकृद्विकुर्वन् श्रोतो भवेद्यस्तु मनाक्षमायाम्। नवालसस्तं करुणैकबन्धुं गोपाललालं शरणं प्रपद्ये॥