Siddheshvara Ashtakam with Translation
Ashtakam
1
महातीर्थराजस्य तीरे विभान्तं महाभूतिरूपं महात्मैकवेद्यम्। महासिद्धिपूगप्रदानैकदक्षं भजामैव सिद्धेश्वरं चित्त शम्भुम्॥
2
(variation सिद्धशम्भुम्) मनोजस्त्वदक्ष्यग्निभस्मावशेषः मदान्धश्च दक्षो गतश्शोच्यभावम्। मनोजातदाक्ष्याग्नितान्तो मदान्धः भजे निर्मदत्वाय सिद्धेश्वरं त्वाम्॥
3
इयं चापि गङ्गा निबद्धा कपर्दे मदाढ्या यतस्सा कणक्षीरकल्पम्। विसृष्टा जगत्पापनाशाय येन स्वयं चित्त सिद्धेश्वरं चिन्तयैनम्॥
4
(variation स्वयंसिद्ध) न तेऽन्तो न चादिर्हरिस्सोऽपि धाता वराहीभवन्नूर्ध्वहंसीभवंश्च। दधाते हि साक्ष्यं भजे भान्तमेव (variation तदा ते हि साक्ष्यं भजेतां तमेव) महालिङ्गरूपेण सिद्धेश्वरं त्वाम्॥
5
शिवोऽयं प्रदेशो महान् मध्यदेशः शिवा जाह्नवी नित्यसिद्धप्रवाहा। शिवस्त्वं शिवं नित्यसिद्धं ददानः शिवो नः सदा देव सिद्धेश्वर स्याः॥
6
पदाब्जे त्वदीये स्वकीयाक्षिपद्मं पुरा भूषणत्वेन नारायणोऽदात्। इतीदं पुरावृत्तमद्यात्र सत्यं बदर्यो हरिस्साधु सिद्धेश्वरादात्॥
7
कपर्दात् त्वदीयाद्विसृष्टापि गङ्गा पुनस्सेवितुं त्वामहो बद्धवाञ्छा। सकाशे त्वदीयेऽतिभारप्रवाहा निजाम्भोऽभिषेकाय सिद्धेश्वरागात्॥
8
न मत्तोऽस्म्यहं चेन्न मत्तोऽसि भिन्नः नमत्तोषितस्त्वं नमत्तोषदाता। न मत्तोऽसि भिन्नस्त्वमित्यैक्य तोषं नमद्भ्यः प्रदेहीह सिद्धेश्वर त्वम्॥
9
इति प्रयागसिद्धेशभक्ति भृज्जनता हृदि। श्लोकाष्टकमिदं पुण्यं नित्यं वर्धयतां शुभम्॥
10
इति महापेरियवा श्री चन्द्रशेखरेन्द्रसरस्वतीविरचितं सिद्धेश्वराष्टकं सम्पूर्णम् ।॥
11
सिद्धेश्वराष्टकम् सार्थम्॥
12
Siddheshvara Ashtakam with Translation महातीर्थ-राजस्य तीरे विभान्तम् महाभूति-रूपं महात्मैक-वेद्यम्। महासिद्धि-पूग-प्रदानैक-दक्षम् भजात्रैव सिद्धेश्वरं चित्त शम्भुम्॥