Shri Krishnaveni Ashtakam
Ashtakam
1
%७३ स्वैनोवृन्दापहृदिह मुदा वारिताशेषखेदा शीघ्रं मन्दानपि खलु सदा याऽनुगृह्णात्यभेदा। कृष्णावेणी सरिदभयदा सच्चिदानन्दकन्दा पूर्णानन्दामृतसुपददा पातु सा नो यशोदा॥
2
स्वर्निश्रेणिर्या वराभीतिपाणिः पापश्रेणीहारिणी या पुराणी। कृष्णावेणी सिन्धुरव्यात्कमूर्तिः सा हृद्वाणीसृत्यतीताऽच्छकीर्तिः॥
3
कृष्णासिन्धो दुर्गतानाथबन्धो मां पङ्काधोराशु कारुण्यसिन्धो। उद्धृत्याधो यान्तमन्त्रास्तबन्धो मायासिन्धोस्तारय त्रातसाधो॥
4
स्मारं स्मारं तेऽम्ब माहात्म्यमिष्टं जल्पं जल्पं ते यशो नष्टकष्टम्। भ्रामं भ्रामं ते तटे वर्त आर्ये मज्जं मज्जं तेऽमृते सिन्धुवर्ये॥
5
श्रीकृष्णे त्वं सर्वपापापहन्त्री श्रेयोदात्री सर्वतापापहर्त्री। भर्त्री स्वेषां पाहि षड्वैरिभीते- र्मां सद्गीते त्राहि संसारभीतेः॥
6
कृष्णे साक्षात्कृष्णमूर्तिस्त्वमेव कृष्णे साक्षात्त्वं परं तत्त्वमेव। भावग्राह्रे मे प्रसीदाधिहन्त्रि त्राहि त्राहि प्राज्ञि मोक्षप्रदात्रि॥
7
हरिहरदूता यत्र प्रेतोन्नेतुं निजं निजं लोकम्। कलहायन्तेऽन्योन्यं सा नो हरतूभयात्मिका शोकम्॥
8
विभिद्यते प्रत्ययतोऽपि रूपमेकप्रकृत्योर्न हरेर्हरस्य। भिदेति या दर्शयितुं गतैक्यं वेण्याऽजतन्वाऽजतनुर्हि कृष्णा॥
9
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णाष्टकम्ं सम्पूर्णम् ।॥