shrIgirirAjadhAryaShTakam

Ashtakam

1

भक्ताभिलाषाचरितानुसारी दुग्धादिचौर्येण यशोविसारी। कुमारतानन्दितघोषनारी मम प्रभुः श्रीगिरिराजधारी॥

2

व्रजाङ्गनावृन्दसदाविहारी अङ्गैर्गृहाङ्गारतमोऽपहारी। क्रीडारसावेशतमोऽभिसारी मम प्रभुः श्रीगिरिराजधारी॥

3

वेणुस्वनानन्दितपन्नगारी रसातलानृत्यपदप्रचारी। क्रीडन्वयस्याकृतिदैत्यमारी मम प्रभुः श्रीगिरिराजधारी॥

4

पुलिन्ददाराहितशम्बरारी रमासदोदारदयाप्रकारी। गोवर्धने कन्दफलोपहारी मम प्रभुः श्रीगिरिराजधारी॥

5

कलिन्दजाकूलदुकूलहारी कुमारिकाकामकलावितारी। वृन्दावने गोधनवृन्दचारी मम प्रभुः श्रीगिरिराजधारी॥

6

व्रजेन्द्रसर्वाधिकशर्मकारी महेन्द्रगर्वाधिकगर्वहारी। वृन्दावने कन्दफलोपहारी मम प्रभुः श्रीगिरिराजधारी॥

7

मनःकलानाथतमोविदारी वंशीरवाकारिततत्कुमारिः। रासोत्सवोद्वेल्लरसाब्धिमारी मम प्रभुः श्रीगिरिराजधारी॥

8

मत्तद्विपोद्दामगतानुकारी लुठत्प्रसूनाप्रपदीनहारी। रामोरसस्पर्शकरप्रसारी मम प्रभुः श्रीगिरिराजधारी॥