shrIgokulanAthAShTakam

Ashtakam

1

भवभीतजनाखिलभीतिहरं हरवन्दितनन्दतनूजरतम्। रतवृद्धगुरुद्विजभृत्यजनं जनदुर्लभमार्गसुबोधकरम्॥

2

करपद्मसुसेवितशैलधरं धरणीतलविश्रुतसाधुगुणम्। गुणसिन्धुविमर्दितदुष्टमुखं मुखकल्पितमार्गनिवृत्तिपरम्॥

3

परमप्रियमङ्गलवेषधरं वरबन्धुसुहृत्सुतलब्धसुखम्। सुखसागरमम्बुजचारुमुखं मुखपङ्कजकीर्तितकृष्णकथम्॥

4

कथनीयगुणामृतवारिनिधिं निधिसेवितमर्चितपद्मपदम्। पदपङ्कजसंश्रितविज्ञबुधं बुधविठ्ठलनाथचतुर्थसुतम्॥

5

सुतरां करुणाब्धिमनन्तगुणं गुणरत्नविराजितशुद्धतनुम्। तनुरत्नवशीकृतनन्दसुतं सुतमित्रकलत्रसुसेव्यपदम्॥

6

पदपङ्कजपावितसाधुजनं जनहेतुगृहीतमनुष्यतनुम्। तनुकान्तितिरस्कृतपञ्चशरं शरणागतरक्षितभक्तजनम्॥

7

जनतोषणपोषणदत्तहृदं हृदयार्पितगोपवधूरमणम्। रमणीयतरामलभक्तिकृतं कृतकृष्णकथामृततृप्तजनम्॥

8

जनवाञ्छितकामदरत्नगुणं गुणभूषणभूषितलोकगुरुम्। गुरुगोकुलनाथमुपास्यमहं महतां परिसेवितमाकलये॥

9

श्रीमद्गोकुलनाथानामष्टकं यः पठेन्नरः। गोकुलेशपदाम्भोजभक्तिं स लभते पराम्॥